Shri Srinivasa Stuti

श्रीमन्नारायणं वन्दे श्रीलक्ष्मीवेङ्कटेश्वरम् ।कल्याणगुणसंपूर्णशरणागतवत्सलम् ।।१।। दुस्तरात् कलिमालिन्यात् उद्धततुं प्रणतान् जनान् ।आश्रये श्रीपतिं नित्यं वैकुण्ठात् भुवमागतम् ।।२।। विधीशमुखगीर्वाणवन्दिताङि्घ्रसरोरुहम् ।नमामि नम्रिशिरसा प्रणाताघविनाशनम् ।।३।। यत्पादसंभवा गङ्गा पुनाति सकलं जगत् ।वन्दारुजनमन्दारं वन्दे तं श्रीनिकेतनम् ।।४।। यन्नाभिपद्मसंभूतो स्वयंभूरखिलं जगत् ।ससर्ज तं मुदा वन्दे पद्मावतिपतिं हरिम् ।।५।। दीना वयं दीननाथ पूर्णषड्गुणविग्रह ।भक्तवत्सल विश्वेश पाहि नोशरणुगतान् ।।६।। गुणैर्हीना: दोषयुक्ता: वयं देव दयानिधे … Read more

Sri Gosripuresha Venkatesh Bhujangaprayaatam

विधीशेन्द्रवृन्दारकै: पूजिताङि्घ्रंमरुत्पुत्रपक्षीन्द्रविघ्नेशसेव्यम् ।नतं पुत्रवत् पालयन्तं दयालुंभजे वेङ्कटेशं रमेशं सुरेशं ।।१।। मुरारिं सुरारीन्दनरवंशप्रणाशंअघारिं नताघौघनाशं प्रकाशम् ।सदानन्दमीशं चिदाकाशवासंभजे वेङ्कटेशं रमेशं सुरेशं ।।२।। पवित्रं चरित्रं विचित्रं तु यस्यश्रुतं श्रद्धया चिन्तितं कीर्तितं च ।ददातीशभक्तिं मनोवाञ्छितं तंभजे वेङ्कटेशं रमेशं सुरेशं ।।३।। प्रभुं पद्मनाभं विभुं विश्वनाथंरमावल्लभं माधवं चित्प्रकाशम् ।गुरुणां गुरुं शाश्वतं शाश्वतानांभजे वेङ्कटेशं रमेशं सुरेशं ।।४।। सतां पोषणं शासकं दुर्जनाननांहरिं शोभनं … Read more

Shri Vishwanath Stotra

[print_link] उमेशं परं शंकरं शान्तमूर्तिंनतं प्रीतिपूर्वं भवादुद्धरन्तम् ।शिवं नीलकण्ठं भवं भक्तपालंमुदा प्रेमपूर्णेन चित्तेन वन्दे ।।१।। umeśaṁ paraṁ śaṁkaraṁ śāntamūrtiṁnataṁ prītipūrvaṁ bhavāduddharantam ।śivaṁ nīlakaṇṭhaṁ bhavaṁ bhaktapālaṁmudā premapūrṇena cittena vande ।।1।। सदानन्दमीशं सुरेशं परेशंसदा देववृन्देन संपूजिताङि्घ्रम् ।सुखं शाश्वतं यत्प्रसादातु लभ्यम्भवानीपतिं तं भजे सुन्दरेशम् ।।२।। sadānandamīśaṁ sureśaṁ pareśaṁsadā devavr̥ndena saṁpūjitāṅighram ।sukhaṁ śāśvataṁ yat prasādātu labhyambhavānīpatiṁ taṁ bhaje sundareśam … Read more

Shri Sukrutindra Stuti

श्रीव्यासरामपादाब्जमधुपानेन सन्ततम् । नित्यानन्दान् यतीन् श्रीमद् सुकृतीन्द्रगुरुन् भजे ।।१।। एकाग्रमनसा नित्यं नियमेन जपादिभि: । निगृहीतेन्द्रियान् श्रीमद् सुकृतीन्द्रगुरुन् भजे ।।२।। मनसा कर्मणा वाचा न किंचिदपि दुष्कृतम् । कृतं यै: शुद्धसत्वान् तान् सुकृतीन्द्रगुरुन् भजे ।।३।। करुणापूर्णमनसा स्नेहपूर्णक्षणैस्तथा ददुर्ये दिव्यमानन्दं सुक़तीन्द्रगुरुन् भजे ।।४।। लाञ्छनेन विनिर्मुक्तं पूर्णिमाशशिमण्डलम् । यन्मुखं तान् श्रीमत् सुकृतीन्द्रगुरुन् भजे ।।५।। यद्वाणी वेदवाणीव सत्या भवति सन्ततम् … Read more