Shri Ganga Prarthana

वन्दे गंगा भीतिभङ्गा सङ्गवर्जितसेविताम् । सर्वसौभाग्यदां देवीं सर्वसौभाग्यसिद्धये ।।१।। गंङ्गे त्वं जगदाधारा पीयूषोपमवारिणा । समग्रं भारतं देशं समृद्धं कुरु भामिनि ।।२।। सर्वेश्वरमहाविष्णो: पादाम्बुजसमुद्भवे । भक्त्या वन्दे महाभागे प्रसीद परमेश्वरि ।।३।। लोककल्याणदक्षस्य शमभोर्मुकुटभूषणे । कल्याणं कुरु सर्वेषां नतानां नतवत्सले ।।४।। जन्हुकन्ये जगद्धात्रि क्षमाशीले क्षमस्व न: । प्रसीद दयया देवि मङ्गलं कुरु मङ्गले ।।५।। भगीरथनरेन्द्रस्य तपसा भुवमागते … Read more

Shri Guruprampara Stotram

[print_link] जयति जयति योगी वासवीनन्दनोऽयंशृणुत शृणुत सन्त: सज्जनोद्धारकोऽयम् ।नमत नमत भक्त्या सन्नतान्नयन्तंवृणुत वृणुत कामं भक्तकल्पद्रुमोऽयम् ।।१।। अपूर्वकल्पद्रुम एष देव:व्यास: सतां सद्गतिदो मुनीन्द्र: ।मातेव पुत्राय हितं हि नित्यम्दत्ते स्वभक्ताय विनैव याञ्चाम् ।।२।। नौमि वेधसममोघदर्शनं शारदां हरिपदाब्जभक्तिदाम् ।मारुतिं प्रणतसन्मतिप्रदं भारतीं च सुमतिप्रदां शुभाम् ।।३।। लक्ष्मीशपादाम्बुजभृङ्गरूपं ज्ञानेन दिव्येन सुखेन पूर्णम् ।श्रीमध्वसूर्यं निजभक्तमोहतामिस्त्रनाशं प्रणमामि भक्त्या ।।४।। ज्ञानादि गुणसंपन्नान् प्रपन्नापन्निवारकान् … Read more

Shri Narasimha Ashtakam

श्रीपतिं विधीशशक्रदेववृन्दवन्दितंवत्सगौतमात्रिकश्यपादियोगिपूजितम् ।भक्तवर्यदैत्यराजपुत्रसन्ततार्चितम्श्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।१।। अद्भुताकृतिं नरं हरिं परात्परं प्रभुंभद्रमुग्ररूपिणं नतेष्टवत्सलं विभुम् ।भक्तमोहनं सुरारिभीषणं मुरान्तकंश्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।२।। वेदवेदितार्थतत्वगम्यरूपमव्ययंनिर्मलं निरामयं प्रतीतिदूरमीश्वरम् ।निर्गुणं समस्तदिव्यसद्गुणाकारं परंश्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।३।। सुर्यचन्द्रलोचनं त्रिलोचनेन पूजितंसिंहविक्रमं त्रिविक्रमं त्रिलोकपालकम् ।अक्रमादिदोषपूर्णदुष्तमारणक्रमंश्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।४।। मेघनादशङि्खिनं सुरारिघातिचक्रिणंदैत्यजानुदारिणीगदायुतं रमाप्रियम् ।काममोहलोभकोपनाशिपद्मभूषितंश्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।५।। अप्रमेयमच्युतं समस्तवेदसंस्तुतंभक्तिलभ्यदिव्यदृष्टिगोचरं त्वतीन्द्रियम् ।तत्वमेकमद्भुतं समस्तजीवजीवनम्श्रीकरं नृसिंहमाश्रये … Read more

Shri Srinivasa Stuti

श्रीमन्नारायणं वन्दे श्रीलक्ष्मीवेङ्कटेश्वरम् ।कल्याणगुणसंपूर्णशरणागतवत्सलम् ।।१।। दुस्तरात् कलिमालिन्यात् उद्धततुं प्रणतान् जनान् ।आश्रये श्रीपतिं नित्यं वैकुण्ठात् भुवमागतम् ।।२।। विधीशमुखगीर्वाणवन्दिताङि्घ्रसरोरुहम् ।नमामि नम्रिशिरसा प्रणाताघविनाशनम् ।।३।। यत्पादसंभवा गङ्गा पुनाति सकलं जगत् ।वन्दारुजनमन्दारं वन्दे तं श्रीनिकेतनम् ।।४।। यन्नाभिपद्मसंभूतो स्वयंभूरखिलं जगत् ।ससर्ज तं मुदा वन्दे पद्मावतिपतिं हरिम् ।।५।। दीना वयं दीननाथ पूर्णषड्गुणविग्रह ।भक्तवत्सल विश्वेश पाहि नोशरणुगतान् ।।६।। गुणैर्हीना: दोषयुक्ता: वयं देव दयानिधे … Read more

Sri Gosripuresha Venkatesh Bhujangaprayaatam

विधीशेन्द्रवृन्दारकै: पूजिताङि्घ्रंमरुत्पुत्रपक्षीन्द्रविघ्नेशसेव्यम् ।नतं पुत्रवत् पालयन्तं दयालुंभजे वेङ्कटेशं रमेशं सुरेशं ।।१।। मुरारिं सुरारीन्दनरवंशप्रणाशंअघारिं नताघौघनाशं प्रकाशम् ।सदानन्दमीशं चिदाकाशवासंभजे वेङ्कटेशं रमेशं सुरेशं ।।२।। पवित्रं चरित्रं विचित्रं तु यस्यश्रुतं श्रद्धया चिन्तितं कीर्तितं च ।ददातीशभक्तिं मनोवाञ्छितं तंभजे वेङ्कटेशं रमेशं सुरेशं ।।३।। प्रभुं पद्मनाभं विभुं विश्वनाथंरमावल्लभं माधवं चित्प्रकाशम् ।गुरुणां गुरुं शाश्वतं शाश्वतानांभजे वेङ्कटेशं रमेशं सुरेशं ।।४।। सतां पोषणं शासकं दुर्जनाननांहरिं शोभनं … Read more