Shri Madhavendra Stuti
भक्तवात्सल्यकारुण्यनिधीन् भक्तजनाश्रितान् । माधवेन्द्रान् भजे नित्यं भक्तोद्धारणदीक्षितान् ।।१।। काशीमठीययोगीन्द्रदेवेन्द्रस्वामिसंभवान् । माधवेन्द्रगुरुन् वन्दे ज्ञानीन्द्रस्वामिपूजितान् ।।२।। कल्याणगुणसंफूर्ण्यासरामपदार्चनात् । सिद्धयोगीन्द्रतामापु: तान् सद्गुरुवरान् भजे ।।३।। आत्मारामा: नित्यतृप्ता: ध्याननिष्ठास्तपोधना: । जीवनमुक्तिमवापुर्ये तान् सद्गुरुवरान् भजे ।।४।। बृहस्पतिसमान् बुद्ध्या तपसा भृगुसम्मितान् । दयया रन्तिना तुल्या: तान् सद्गुरुवरान् भजे ।।५।। सज्जनान् तोषयामासु: मानेन च शुभाशिषा। जिज्ञासून् तत्वबोधेन तान् सद्गुरुवरान् भजे ।।६।। वेदवेदाङ्गवेदान्तशास्त्रदर्शनपारगान् । … Read more